Thursday, 18 January 2018
धंवंतरिस्त्रोतम
धन्वन्तरिस्तोत्रम् ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति
सञ्जीवयन्तममितात्मसुखं परेशम् ।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥
मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं
भ्रूमध्यगाच्च तत एव च तानुसंस्थात् ।
हार्दाच्च नाभिसदनादधरस्थिताच्च
ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥
अज्ञान-दुःख-भय-रोग-महाविषाणि
योगोऽयमाशु विनिहन्ति सुखं च दद्यात् ।
उन्माद-विभ्रमहरः हरतश्च सान्द्र-
मानन्दमेव पदमापयति स्म नित्यम् ॥
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं
एवं स यस्य शिरसि स्वकरं निधाय ।
आवर्तयेन्मनुमिमं स च वीतरोगः
पापादपैति मनसा यदि भक्तिनम्रः ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥
पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः ।
नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥
var स्निग्धकुञ्चित Bhagavatam 8.8.34
अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः।
स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ।
धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् ।
एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा
धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे ।
धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय
सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥
धन्वन्तरिश्च भगवान् स्वयमास देवो var स्वयेमेव कीर्तिः
नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवाप चार्धा var रवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥
Bhagavatam 2.7.21
क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् ।
सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥
अच्युतानन्त-गोविन्द-विष्णो नारायणामृत ।
रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
धं धन्वन्तरये नमः ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
इति धन्वन्तरिस्तोत्रं सम्पूर्णम् ।
Ruchi Sehgal
अमृतसञ्जीवन धन्वन्तरिस्तोत्रम्
अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् ॥
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥
नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ २॥
नमो नमस्ते सकलार्त्रिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ ३॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४॥
यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५॥
स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६॥
चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ७॥
पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ८॥
धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ९॥
भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १०॥
याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ११ ॥
क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १२॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १३॥
भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १४॥
वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १५॥
कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक् ।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १६॥
असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय ॥ १८ ॥
अहं न जाने किमपि त्वदन्यत्
समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥
त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याहिनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ २०॥
न मेऽपराधं प्रविलोकय प्रभोऽ-
पराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्ष्यते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१॥
अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवाअन् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ २२॥
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३॥
क्लीं श्रीं क्लीं श्रीं नमो भगवते
जनार्दनाय सकलदुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि स्वाहा ॥ २४॥
॥ फलश्रुतिः॥
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ २५॥
सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ २६॥
॥ इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥
Ruchi Sehgal
श्रीलक्ष्मीनृसिंहसहस्रनामावली
॥ श्रीलक्ष्मीनृसिंहसहस्रनामावली ॥
ॐ ह्रीं श्रीं ऐं क्ष्रौं
ॐ नारसिंहाय नमः
ॐ वज्रदंष्ट्राय नमः
ॐ वज्रिणे नमः
ॐ वज्रदेहाय नमः
ॐ वज्राय नमः
ॐ वज्रनखाय नमः
ॐ वासुदेवाय नमः
ॐ वन्द्याय नमः
ॐ वरदाय नमः
ॐ वरात्मने नमः
ॐ वरदाभयहस्ताय नमः
ॐ वराय नमः
ॐ वररूपिणे नमः
ॐ वरेण्याय नमः
ॐ वरिष्ठाय नमः
ॐ श्रीवराय नमः
ॐ प्रह्लादवरदाय नमः
ॐ प्रत्यक्षवरदाय नमः
ॐ परात्परपरेशाय नमः
ॐ पवित्राय नमः
ॐ पिनाकिने नमः
ॐ पावनाय नमः
ॐ प्रसन्नाय नमः
ॐ पाशिने नमः
ॐ पापहारिणे नमः
ॐ पुरुष्टुताय नमः
ॐ पुण्याय नमः
ॐ पुरुहूताय नमः
ॐ तत्पुरुषाय नमः
ॐ तथ्याय नमः
ॐ पुराणपुरुषाय नमः
ॐ पुरोधसे नमः
ॐ पूर्वजाय नमः
ॐ पुष्कराक्षाय नमः
ॐ पुष्पहासाय नमः
ॐ हासाय नमः
ॐ महाहासाय नमः
ॐ शार्ङ्गिणे नमः
ॐ सिंहाय नमः
ॐ सिंहराजाय नमः
ॐ जगद्वश्याय नमः
ॐ अट्टहासाय नमः
ॐ रोषाय नमः
ॐ जलवासाय नमः
ॐ भूतावासाय नमः
ॐ भासाय नमः
ॐ श्रीनिवासाय नमः
ॐ खड्गिने नमः
ॐ खड्ग जिह्वाय नमः
ॐ सिंहाय नमः
ॐ खड्गवासाय नमः
ॐ मूलाधिवासाय नमः
ॐ धर्मवासाय नमः
ॐ धन्विने नमः
ॐ धनञ्जयाय नमः
ॐ धन्याय नमः
ॐ मृत्युञ्जयाय नमः
ॐ शुभञ्जयाय नमः
ॐ सूत्राय नमः
ॐ शत्रुञ्जयाय नमः
ॐ निरञ्जनाय नमः
ॐ नीराय नमः
ॐ निर्गुणाय नमः
ॐ गुणाय नमः
ॐ निष्प्रपञ्चाय नमः
ॐ निर्वाणपदाय नमः
ॐ निबिडाय नमः
ॐ निरालम्बाय नमः
ॐ नीलाय नमः
ॐ निष्कळाय नमः
ॐ कळाय नमः
ॐ निमेषाय नमः
ॐ निबन्धाय नमः
ॐ निमेषगमनाय नमः
ॐ निर्द्वन्द्वाय नमः
ॐ निराशाय नमः
ॐ निश्चयाय नमः
ॐ निराय नमः
ॐ निर्मलाय नमः
ॐ निबन्धाय नमः
ॐ निर्मोहाय नमः
ॐ निराकृते नमः
ॐ नित्याय नमः
ॐ सत्याय नमः
ॐ सत्कर्मनिरताय नमः
ॐ सत्यध्वजाय नमः
ॐ मुञ्जाय नमः
ॐ मुञ्जकेशाय नमः
ॐ केशिने नमः
ॐ हरीशाय नमः
ॐ शेषाय नमः
ॐ गुडाकेशाय नमः
ॐ सुकेशाय नमः
ॐ ऊर्ध्वकेशाय नमः
ॐ केशिसंहारकाय नमः
ॐ जलेशाय नमः
ॐ स्थलेशाय नमः
ॐ पद्मेशाय नमः
ॐ उग्ररूपिणे नमः
ॐ कुशेशयाय नमः
ॐ कूलाय नमः
ॐ केशवाय नमः
ॐ सूक्तिकर्णाय नमः
ॐ सूक्ताय नमः
ॐ रक्तजिह्वाय नमः
ॐ रागिणे नमः
ॐ दीप्तरूपाय नमः
ॐ दीप्ताय नमः
ॐ प्रदीप्ताय नमः
ॐ प्रलोभिने नमः
ॐ प्रच्छिन्नाय नमः
ॐ प्रबोधाय नमः
ॐ प्रभवे नमः
ॐ विभवे नमः
ॐ प्रभञ्जनाय नमः
ॐ पान्थाय नमः
ॐ प्रमायाप्रमिताय नमः
ॐ प्रकाशाय नमः
ॐ प्रतापाय नमः
ॐ प्रज्वलाय नमः
ॐ उज्ज्वलाय नमः
ॐ ज्वालामालास्वरूपाय नमः
ॐ ज्वलज्जिह्वाय नमः
ॐ ज्वालिने नमः
ॐ महूज्ज्वालाय नमः
ॐ कालाय नमः
ॐ कालमूर्तिधराय नमः
ॐ कालान्तकाय नमः
ॐ कल्पाय नमः
ॐ कलनाय नमः
ॐ कृते नमः
ॐ कालचक्राय नमः
ॐ चक्राय नमः
ॐ वषट्चक्राय नमः
ॐ चक्रिणे नमः
ॐ अक्रूराय नमः
ॐ कृतान्ताय नमः
ॐ विक्रमाय नमः
ॐ क्रमाय नमः
ॐ कृत्तिने नमः
ॐ कृत्तिवासाय नमः
ॐ कृतघ्नाय नमः
ॐ कृतात्मने नमः
ॐ संक्रमाय नमः
ॐ क्रुद्धाय नमः
ॐ क्रांतलोकत्रयाय नमः
ॐ अरूपाय नमः
ॐ स्वरूपाय नमः
ॐ हरये नमः
ॐ परमात्मने नमः
ॐ अजयाय नमः
ॐ आदिदेवाय नमः
ॐ अक्षयाय नमः
ॐ क्षयाय नमः
ॐ अघोराय नमः
ॐ सुघोराय नमः
ॐ घोरघोरतराय नमः
ॐ अघोरवीर्याय नमः
ॐ लसद्घोराय नमः
ॐ घोराध्यक्षाय नमः
ॐ दक्षाय नमः
ॐ दक्षिणाय नमः
ॐ आर्याय नमः
ॐ शम्भवे नमः
ॐ अमोघाय नमः
ॐ गुणौघाय नमः
ॐ अनघाय नमः
ॐ अघहारिणे नमः
ॐ मेघनादाय नमः
ॐ नादाय नमः
ॐ मेघात्मने नमः
ॐ मेघवाहनरूपाय नमः
ॐ मेघश्यामाय नमः
ॐ मालिने नमः
ॐ व्यालयज्ञोपवीताय नमः
ॐ व्याघ्रदेहाय नमः
ॐ व्याघ्रपादाय नमः
ॐ व्याघ्रकर्मिणे नमः
ॐ व्यापकाय नमः
ॐ विकटास्याय नमः
ॐ वीराय नमः
ॐ विष्टरश्रवसे नमः
ॐ विकीर्णनखदंष्ट्राय नमः
ॐ नखदंष्ट्रायुधाय नमः
ॐ विष्वक्सेनाय नमः
ॐ सेनाय नमः
ॐ विह्वलाय नमः
ॐ बलाय नमः
ॐ विरूपाक्षाय नमः
ॐ वीराय नमः
ॐ विशेषाक्षाय नमः
ॐ साक्षिणे नमः
ॐ वीतशोकाय नमः
ॐ विस्तीर्णवदनाय नमः
ॐ विधेयाय नमः
ॐ विजयाय नमः
ॐ जयाय नमः
ॐ विबुधाय नमः
ॐ विभावाय नमः
ॐ विश्वम्भराय नमः
ॐ वीतरागाय नमः
ॐ विप्राय नमः
ॐ विटङ्कनयनाय नमः
ॐ विपुलाय नमः
ॐ विनीताय नमः
ॐ विश्वयोनये नमः
ॐ चिदम्बराय नमः
ॐ वित्ताय नमः
ॐ विश्रुताय नमः
ॐ वियोनये नमः
ॐ विह्वलाय नमः
ॐ विकल्पाय नमः
ॐ कल्पातीताय नमः
ॐ शिल्पिने नमः
ॐ कल्पनाय नमः
ॐ स्वरूपाय नमः
ॐ फणितल्पाय नमः
ॐ तटित्प्रभाय नमः
ॐ तार्याय नमः
ॐ तरुणाय नमः
ॐ तरस्विने नमः
ॐ तपनाय नमः
ॐ तरक्षाय नमः
ॐ तापत्रयहराय नमः
ॐ तारकाय नमः
ॐ तमोघ्नाय नमः
ॐ तत्वाय नमः
ॐ तपस्विने नमः
ॐ तक्षकाय नमः
ॐ तनुत्राय नमः
ॐ तटिने नमः
ॐ तरलाय नमः
ॐ शतरूपाय नमः
ॐ शान्ताय नमः
ॐ शतधाराय नमः
ॐ शतपत्राय नमः
ॐ तार्क्ष्याय नमः
ॐ स्थिताय नमः
ॐ शतमूर्तये नमः
ॐ शतक्रतुस्वरूपाय नमः
ॐ शाश्वताय नमः
ॐ शतात्मने नमः
ॐ सहस्रशिरसे नमः
ॐ सहस्रवदनाय नमः
ॐ सहस्राक्षाय नमः
ॐ देवाय नमः
ॐ दिशश्रोत्राय नमः
ॐ सहस्रजिह्वाय नमः
ॐ महाजिह्वाय नमः
ॐ सहस्रनामधेयाय नमः
ॐ सहस्राक्षधराय नमः
ॐ सहस्रबाहवे नमः
ॐ सहस्रचरणाय नमः
ॐ सहस्रार्
Ruchi Sehgal