Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Friday 1 September 2017

अच्युतं अष्टकम , Achyuta ashtkam

No comments :
अच्युतं केशवं रामनारायणं  अष्टकम
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचंद्रं भजे ॥ १ ॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् ।
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे ॥ २ ॥
विष्णवे जिष्णवे शंकने चक्रिणे
रुक्मिणी राहिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ॥ ३ ॥
कृष्ण गोविंद हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥
राक्षस क्षोभितः सीतया शोभितो
दंडकारण्यभू पुण्यताकारणः ।
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य संपूजितो राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टका‌உनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ॥ ६ ॥
बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ।
वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ ७ ॥
कुंचितैः कुंतलै भ्राजमानाननं
रत्नमौलिं लसत्-कुंडलं गंडयोः ।
हारकेयूरकं कंकण प्रोज्ज्वलं
किंकिणी मंजुलं श्यामलं तं भजे ॥ ८ ॥
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरः
तस्य वश्यो हरि र्जायते सत्वरम् ॥

No comments :

Post a Comment