Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Thursday 27 July 2017

श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम् (shree akkalkotswamikavach stortam)

No comments :
॥ श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम् ॥

               ॐ ।
अस्य श्री स्वामी कवच स्तोत्रमंत्रस्य ।
सुव्रत ऋषिः ।  अनुष्टुप् छंदः ।
स्वामी समर्थ देवता ।
शङ्करराजे शक्तिः ।
बाळाप्पा कीलकम् ।
मम सकलाभीष्टप्राप्त्यर्थं  पाठे विनियोगः ।
       । अथ करन्यासः ।
     ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥

     ॐ ह्रीं तर्जनीभ्यां नमः ॥

     ॐ ह्रूं मध्यमाभ्यां नमः ॥

     ॐ ह्रैं अनामिकाभ्यां  नमः ॥

     ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥

     ॐ ह्रः करतलकरपृष्ठाभ्यां  नमः ॥

       ॥ अथ षडङ्गन्यासः ॥

     ॐ ह्रां हृदयाय नमः ॥

     ॐ ह्रीं शिरसे स्वाहा ॥

     ॐ ह्रूं शिखायै वषट् ॥

     ॐ ह्रैं कवचाय हुं ॥

     ॐ ह्रौं नेत्रत्रयाय वौषट् ॥

     ॐ ह्रः अस्त्राय फट् ॥

       ॥ अथ ध्यानम् ॥

भूमानंदं सहजसुखदं केवलं ब्रह्ममूर्तिम् ।
विश्वातीतं विमलहृदयं वेदवेदान्त वेद्यम् ॥ १॥

शान्तं दान्तं सरलमनसं सर्वसामर्थ्यरूपम् ।     ं
सर्वातीतं ह्यमरमचलं स्वामिनं तं नमामि ॥ २॥

ॐ शीर्षं मे पातु स्वामी वै ।
भालं नेत्रे च सद्गुरुः ॥ १॥

कण्ठं मुखञ्च पातु मे ।
स्वामीसमर्थ देशिकः ॥ २॥

स्कन्धौ मे पातु स्वामी वै ।
बाहू पातु तु सद्गुरुः ॥ ३॥

करौ मे पातु स्वामी च ।
अङ्गुलयश्च देशिकः ॥ ४॥

प्रज्ञाप्राकारवासी वै ।
हृदयं पातु मे सदा ॥ ५॥

उरः स्थलञ्च स्वामी वै ।
कटिं मध्यं हि सद्गुरुः ॥ ६॥

नाभिं जङ्घे च स्वामी वै ।
गुह्यं पातु च देशिकः ॥ ७॥

ऊरू  जानु समर्थश्च ।
पादौ स्वामी च पातु मे ॥ ८॥

देहं मनश्च प्रज्ञाञ्च ।
प्रज्ञापुरस्थितः सदा ॥ ९॥

दशदिक्षु स पातु मां ।
स्वामीसमर्थ सद्गुरुः ॥ १०॥

उत्पातान्त्रिविधान्नित्यं ।
नष्टान् कुर्वन्तु सद्गुरुः ॥ ११॥

संकटानाधिव्याधींश्च ।
नश्यन्तु देशिकः सदा ॥ १२॥

नानापीडांश्च बाधांश्च जरामरणयातनाः ।
प्रातिकूल्यादिविघ्नांश्च नश्यन्तु सद्गुरुः सदा ॥ १३॥

भूतप्रेतपिशाचांश्च वेतालब्रह्मराक्षसान् ।
शाकिनिडाकिन्यादींश्च नश्यन्तु स्वामीसमर्थः ॥ १४॥

महापापांश्च घोरांश्च ब्रह्महत्यादिदुर्धरान् ।
समूलान्पातकान्नित्यं नश्यन्तु सद्गुरुस्तथा ॥ १५॥

स्वामी समर्थ तेजश्च रक्षतु माञ्च सर्वदा ।
भूत्वा तत्कवचं मे च अभेद्यं तत्भवेत्सदा ॥ १६॥

वज्रकवचमिदं वै च यः पठेद्भक्तिमान्नरः ।
तीर्त्वा च संकटान्घोरान् सर्वतः सुखमाप्नुयात् ॥ १७॥

प्रतिदिनं पठेद्यो भक्तो भावपूरितचित्ततः ।
संसारसागरं तीर्त्वा भुक्तिं मुक्तिञ्च विन्दति ॥ १८॥

साधको यो यदिच्छेच्च गुरुभक्तो हि वर्तते ।
प्रसन्नो तस्मिन्हि भूत्वा च कृपालुर्भवति शीघ्रतः ॥ १९॥

स्वामीसमर्थप्रसादश्च कवचं जानयेद् बुधः ॥

सच्छिष्याय भक्ताय दातव्यं न च कर्हिचित् ॥ २०॥

अतिदिव्यं कवचं श्रेष्ठं दत्तं मे स्वामिनाऽधुना ।
अहं ददामि शिष्याय प्रकाशाय प्रियाय च ॥ २१॥

इदं कवचं तस्मै वै शुभं करोति सर्वदा ।
सर्वेषां मंगलं भूयात् दिव्यं कवचमेव च ॥ २२॥

सदिच्छां  प्रकटीकृत्वा समापनं करोम्यहम् ।
नत्त्वा स्वामीसमर्थं च नमामि श्रीधरं गुरुम् ॥ २३॥

प्रकाशस्य निमित्तेन प्रकाशितमिदं स्तवः ।
तर्हि तत्प्रति चाशींश्च ददामि च पुनः पुनः ॥ २४॥

अक्कलकोटवासी च स्वामीसमर्थ सद्गुरुः ।
भूयात् सर्वमांगल्यं सर्वेषामिति प्रार्थये ॥ २५॥

॥  इति सुव्रतविरचितं स्वामीसमर्थवज्रकवचं समाप्तम् ॥

No comments :

Post a Comment