Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Thursday 27 July 2017

॥ सीताष्टोत्तरशतनामावली ॥ sitashtorrshat namavali

No comments :

॥ सीताष्टोत्तरशतनामावली ॥

ॐ जनकनन्दिन्यै नमः । ॐ लोकजनन्यै नमः । ॐ जयवृद्धिदायै नमः । ॐ जयोद्वाहप्रियायै नमः । ॐ रामायै नमः । ॐ लक्ष्म्यै नमः । ॐ जनककन्यकायै नमः । ॐ राजीवसर्वस्वहारिपादद्वयांचितायै नमः । ॐ राजत्कनकमाणिक्यतुलाकोटिविराजितायै नमः । ॐ मणिहेमविचित्रोद्यत्रुस्करोत्भासिभूषणायै नमः । १०। ॐ नानारत्नजितामित्रकांचिशोभिनितंबिन्यै नमः । ॐ देवदानवगन्धर्वयक्षराक्षससेवितायै नमः । ॐ सकृत्प्रपन्नजनतासंरक्षणकृतत्वरायै नमः । ॐ एककालोदितानेकचन्द्रभास्करभासुरायै नमः । ॐ द्वितीयतटिदुल्लासिदिव्यपीतांबरायै नमः । ॐ त्रिवर्गादिफलाभीष्टदायिकारुण्यवीक्षणायै नमः । ॐ चतुर्वर्गप्रदानोद्यत्करपङ्जशोभितायै नमः । ॐ पंचयज्ञपरानेकयोगिमानसराजितायै नमः । ॐ षाड्गुण्यपूर्णविभवायै नमः । ॐ सप्ततत्वादिदेवतायै नमः । २०। ॐ अष्टमीचन्द्ररेखाभचित्रकोत्भासिनासिकायै नमः । ॐ नवावरणपूजितायै नमः । ॐ रामानन्दकरायै नमः । ॐ रामनाथायै नमः । ॐ राघवनन्दितायै नमः । ॐ रामावेशितभावायै नमः । ॐ रामायत्तात्मवैभवायै नमः । ॐ रामोत्तमायै नमः । ॐ राजमुख्यै नमः । ॐ रञ्जितामोदकुन्तलायै नमः । ३०। ॐ दिव्यसाकेतनिलयायै नमः । ॐ दिव्यवादित्रसेवितायै नमः । ॐ रामानुवृत्तिमुदितायै नमः । ॐ चित्रकूटकृतालयायै नमः । ॐ अनुसूयाकृताकल्पायै नमः । ॐ अनल्पस्वान्तसंश्रितायै नमः । ॐ विचित्रमाल्याभरणायै नमः । ॐ विराथमथनोद्यतायै नमः । ॐ श्रितपंचवटीतीरायै नमः । ॐ खद्योतनकुलानन्दायै नमः । ४०। ॐ खरादिवधनन्दितायै नमः । ॐ मायामारीचमथनायै नमः । ॐ मायामानुषविग्रहायै नमः । ॐ छलत्याजितसौमित्र्यै नमः । ॐ छविनिर्जितपंकजायै नमः । ॐ तृणीकृतदशग्रीवायै नमः । ॐ त्राणायोद्यतमानसायै नमः । ॐ हनुमद्दर्शनप्रीतायै नमः । ॐ हास्यलीलाविशारदायै नमः । ॐ मुद्रादर्शनसंतुष्टायै नमः । ५०। ॐ मुद्रामुद्रितजीवितायै नमः । ॐ अशोकवनिकावासायै नमः । ॐ निश्शोकीकृतनिर्जरायै नमः । ॐ लंकादाहकसंकल्पायै नमः । ॐ लंकावलयरोधिन्यै नमः । ॐ शुद्धीकृतासिंतुष्टायै नमः । ॐ शुमाल्यांबरावृतायै नमः । ॐ संतुष्टपतिसंस्तुतायै नमः । ॐ संतुष्टहृदयालयायै नमः । ॐ श्वशुरस्तानुपूज्यायै नमः । ६०। ॐ कमलासनवन्दितायै नमः । ॐ अणिमाद्यष्टसंसिद्ध(ऐ नमः । ॐ कृपावाप्तविभीषणायै नमः । ॐ दिव्यपुष्पकसंरूढायै नमः । ॐ दिविषद्गणवन्दितायै नमः । ॐ जपाकुसुमसंकाशायै नमः । ॐ दिव्यक्षौमांबरावृतायै नमः । ॐ दिव्यसिंहासनारूढायै नमः । ॐ दिव्याकल्पविभूषणायै नमः । ॐ राज्याभिषिक्तदयितायै नमः । ७०। ॐ दिव्यायोध्याधिदेवतायै नमः । ॐ दिव्यगंधविलिप्तांग्यै नमः । ॐ दिव्यावयवसुन्दर्यै नमः । ॐ हय्यंगवीनहृदयायै नमः । ॐ हर्यक्षगणपूजितायै नमः । ॐ घनसारसुगन्धाढ(आयै नमः । ॐ घनकुञ्चितमूर्धजायै नमः । ॐ चन्द्रिकास्मितसम्पूर्णायै नमः । ॐ चारुचामीकरांबरायै नमः । ॐ योगिन्यै नमः । ८०। ॐ मोहिन्यै नमः । ॐ स्तंभिन्यै नमः । ॐ अखिलाण्डेश्वर्यै नमः । ॐ शुभायै नमः । ॐ गौर्यै नमः । ॐ नारायण्यै नमः । ॐ प्रीत्यै नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ शिवायै नमः । ९०। ॐ आश्रितानन्दजनन्यै नमः । ॐ भारत्यै नमः । ॐ वाराह्यैः । ॐ वैष्णव्यै नमः । ॐ ब्राह्म्यैः । ॐ सिद्धवन्दितायै नमः । ॐ षढाधारनिवासिन्यै नमः । ॐ कलकोकिलसल्लापायै नमः । ॐ कलहंसकनूपुरायै नमः । ॐ क्षान्तिशान्त्यादिगुणशालिन्यै नमः । १००। ॐ कन्दर्पजनन्यै नमः । ॐ सर्वलोकसमारध्यायै नमः । ॐ सौगन्धसुमनप्रियायै नमः । ॐ श्यामलायै नमः । ॐ सर्वजनमंगलदेवतायै नमः । ॐ वसुधापुत्र्यै नमः । ॐ मातङ्ग्यै नमः । ॐ सीतायै नमः । ॐ हेमाञ्जनायिकायै नमः । ॐ सीतादेवीमहालक्ष्म्यै नमः । ११०। ॐ सकलसांराज्यलक्ष्म्यै नमः । ॐ भक्तभीष्टफलप्रदायै नमः । ॐ ।ष्टा।ष्टफलप्रदायै नमः । ११३। । इति सीताष्टोत्तरशतनामावलिः सम्पूर्णा ।

No comments :

Post a Comment