Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Thursday 27 July 2017

उच्छिष्टगणेशकवचम् (uchchhisht ganesh kavacham)

No comments :
॥ उच्छिष्टगणेशकवचम् ॥

अथ श्रीउच्छिष्टगणेशकवचम् प्रारम्भः
देव्युवाच ॥

देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । 
विना ध्यानं विना मन्त्रं  विना होमं विना जपम् ॥ १॥

येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । 
तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥

ईश्वर उवाच ॥

श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुहृतरं महत् । 
उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥

अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । 
एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥  ४॥

सिन्धुतिरे च गङ्गायाः कूले वृक्षतले जले । 
सर्वदेवालये तीर्थे लब्ध्वा सम्यग् जपं चरेत् ॥ ५॥

स्नानशौचादिकं नास्ति नास्ति निर्वंधनं प्रिये । 
दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥ 
सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति । 
निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥ 
दुष्टाय परशिष्याय घातकाय शठाय च । 
वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥

अशक्ताय च क्रूराय गुरूद्रोहरताय च । 
न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥

गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः । 
तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥ 
गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् । 
देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्ठैर्महामनुः ॥ ११॥

आकाशे च फलं प्राप्तं नान्यथा वचनं मम । 
एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥

अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् । 
येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥

ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् । 
त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥

हृदये पातु मां नित्यमुच्छिष्टगणदेवता । 
गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥

कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा । 
पाश्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥

शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् । 
हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥

उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने । 
पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥

भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः । 
तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥

गम्बीजं च तथा रक्षेत्तथा त्वग्रे च पृष्टके । 
सर्वकामश्च हृत् पातु पातु मां च करद्वये ॥ २०॥

उच्छिष्टाय च हृदये वह्निबीजं तथोदरे । 
मायाबीजं तथा कट्यां द्वैआ ऊरू सिद्धिदायकः ॥ २१॥

जङ्घायां गणनाथश्च पादौ पातु विनायकः । 
शिरसः पादपर्यन्तमुच्छिष्ठगणनायकः ॥ २२॥

आपादमस्तकान्तं च उमापुत्रश्च पातु माम् । 
दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥

अहर्निशं च मां पातु मदचञ्चललोचनः । 
जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥

राजद्वारे घोरपथे मातु मां गणनायकः । 
इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम्  ॥ २५॥

त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भूजः । 
वाह्यमाभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥

सर्वसिद्धि प्रदं देवि कवचमृद्धिसिद्धिदम् । 
एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥

इदं रहस्यं कवचमुच्छिष्टगणनायकम् । 
सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥

एतत् कवचंमहात्म्यं वर्णितुं नैव शक्यते । 
धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥

शिवपुत्रः सदा पातु पातु मां सुरार्चितः । 
गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥
सदा शक्तिरतः पातु पातु मां कामविह्वलः । 
सर्वाभरणभूषाढयः पातु मां सिन्दूरार्चितः ॥ ३१॥

पञ्चमोदकरः पातु पातु मां पार्वतीसुतः। 
पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥

गदाधरः सदा पातु पातु मां काममोहितः । 
नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥

अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु । 
भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥

उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः । 
नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥

प्रसन्नवदनः पातु पातु मां भगवल्लभः । 
जटाधरः सदा पातु पातु मां च किरीटिकः ॥ ३६॥

पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् । 
नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥

वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः । 
क्षेत्रपः पिशितं पातु पातु मां श्रुतिपाठकः ॥ ३८॥

भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः । 
स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥

श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः । 
श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥

पारभद्रगणेशश्च पातु सप्तगणेश्वरः । 
प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥

हरबीजगणेशश्च भद्राक्षगणनायकः । 
दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥

लवणस्य गणाध्यक्षो मृत्तिकागणनायकः । 
तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥

स्फटिकाक्षगणाध्यक्षो रूद्राक्षगणदैवतः । 
नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥

पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः । 
मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥

पातु मां देवदेवेशः पातु मामृषिपूजितः । 
पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥

त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः । 
रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥

भूमिस्थं च सदा पातु पातलस्थं च पातु माम् । 
अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥

चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् । 
बिल्वस्थं च वनस्थं च पातु मां सर्वतस्तनम् ॥ ४९॥  
राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः। 
भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥

इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् । 
उच्छिष्ठगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥

स्मरणाद्भूभुजत्वं च लभते साङ्गतां ध्रूवम् । 
वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥

प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः। 
चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥

सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् । 
सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥

जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे। 
स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥

राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् । 
सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥

भूतप्रेतपिशाचादियक्षराक्षसजे भये । 
राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥

राजमृत्युहरं देवि कवचं कामधेनुवत् । 
अनन्तफलदं देवि सति मोक्षं च पार्वति ॥ ५८॥

कवचेन विना मन्त्रं यो जपेद्गणनायकम् । 
इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥

इति परमरहस्यं देवदेवार्चनं च
     कवचपरमदिव्यं पार्वती पुत्ररूपम् । 
पठति  परमभोगैश्वर्यमोक्षप्रदं च
     लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥

॥ इति श्रीरूद्रयामलतन्त्रे उमामहेश्वरसंवादे
उच्छिष्ठगणेशकवचं समाप्तम् ॥॥

No comments :

Post a Comment