Jeevan-dharm is about our daily life routine, society, culture, entertainment, lifestyle.

Thursday 18 January 2018

श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

No comments :

॥ श्रीलक्ष्मीस्तोत्रं लोपामुद्रा ॥

॥ पूर्व पीठिका ॥

लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् ।
ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥

श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः ।
नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥

॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥

मातर्नमामि कमले पद्माअयतसुलोचने ।
श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १॥

क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि ।
लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २॥

महेन्द्रसदने त्वं श्रीः रुक्मिणि कृष्णभामिनि ।
चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३॥

स्मितानने जगध्दात्रि शरण्ये सुखवर्द्धिनि ।
जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४॥

ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा ।
शिवौ संहारिका शक्तिः विश्वमातर्नमोऽस्तु ते ॥ ५॥

त्वया शूरागुणीविज्ञा धन्यामान्याकुलीनका ।
कलाशीलकलापाढ्यै विश्वमातर्नमोऽस्तु ते ॥ ६॥

त्वया गजस्तुरङ्गश्च स्त्रैणस्तृर्णं सरः सदः ।
देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७॥

त्वया पक्षीपशुः शय्या रत्नं पृथ्वी नरो वधूः ।
श्रेष्ठा शुध्दा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८॥

लक्ष्मि श्रि कमले पद्मे रमे पद्मोद्भवे सति ।
अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९॥

॥ फल श्रुतिः ॥

इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् ।
लोपामुद्रे मुने जाने वां यत हृत्तापकारणम् ॥ १॥

सुचेतनं दुनोत्येव काशीविश्लेषजोऽनलः ।
युवां वाराणसीं प्राप्य सिध्दिं प्रप्यस्थ ईप्सिताम् ॥ २॥

ये पठिष्यन्ति मत्स्तोत्रं तापदारिद्र्यनाशकम् ।
इष्टसम्पत्प्रदं तेषां जयसन्ततिकारकम् ॥ ३॥

मम सान्निध्यदं बालग्रहादिव्यधिनाशनम् ।
भविष्यति मम सारुप्यादिप्रमोक्षणं तथा ॥ ४॥

॥ श्रीलक्ष्मीनरायणसंहितायां श्रीलोपामुद्राकृत श्रीलक्ष्मीस्तोत्रम् ॥



Ruchi Sehgal

No comments :

Post a Comment